|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.43. अध्यायः 043
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-43-0x(3515)(33377)
कस्यैष मौनः कतरन्नु मौनं
प्रब्रूहि विद्वन्निह मौनभावम्।
मौनेन विद्वानुत याति मौनं
कथं मुने मौनमिहाचरन्ति ॥ 5-43-1(33378)
सनत्सुजात उवाच। 5-43-2x(3516)
यतो न वेदा मनसा सहैन-
मनुप्रविशन्ति ततोऽथ मौनम्।
यत्रोत्थितो वेदशब्दस्तथायं
स तन्मयत्वेन विभाति राजन् ॥ 5-43-2(33379)
धृतराष्ट्र उवाच। 5-43-3x(3517)
ऋचो यजूंषि यो वेद सामवेदं च वेद यः।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ 5-43-3(33380)
सनत्सुजात उवाच। 5-43-4x(3518)
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम्।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ 5-43-4(33381)
न च्छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया सर्वमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 5-43-5(33382)
धृतराष्ट्र उवाच। 5-43-6x(3519)
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ 5-43-6(33383)
सनत्सुजात उवाच। 5-43-7x(3520)
तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ 5-43-7(33384)
तदर्थयुक्तं तप एतदिज्या
ताभ्यामसौ पुण्यमुपैति विद्वान्।
पुण्येन पापं विनिहत्य पश्चा-
त्संजायते ज्ञानविदीपितात्मा ॥ 5-43-8(33385)
ज्ञानेन चात्मानमुपैति विद्वा-
नथान्यथा वर्गफलानुकाङ्क्षी।
अस्मिन्कृतं तत्परिगृह्य सर्व-
ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ 5-43-9(33386)
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ 5-43-10(33387)
` ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत्।
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' 5-43-11(33388)
धृतराष्ट्र उवाच। 5-43-12x(3521)
कथं समृद्धमप्यृद्धं तपो भवति केवलम्।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ 5-43-12(33389)
सनत्सुजात उवाच। 5-43-13x(3522)
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ 5-43-13(33390)
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ 5-43-14(33391)
धृतराष्ट्र उवाच। 5-43-15x(3523)
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ 5-43-15(33392)
सनत्सुजात उवाच। 5-43-16x(3524)
क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि दश त्रि राजन्।
धर्मादयो द्वादशैते पितॄणां
शास्त्रे गुणा ये विदिता द्विजानाम् ॥ 5-43-16(33393)
क्रोधः कामो लोभमोहौ विधित्सा-
ऽकृपाऽसूये मानशोकौ स्पृहा च।
ईर्ष्या जुगुप्सा च मनुष्यदोषा
वर्ज्याः सदा द्वादशैते नराणाम् ॥ 5-43-17(33394)
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ 5-43-18(33395)
विकत्थनः स्पृहयालुर्मनस्वी
बिभ्रत्कोषं चपलो रोषणश्च।
एतान्पापाः षण्णराः पापधर्मान्
प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ 5-43-19(33396)
संभोगसंविद्विषमोऽतिमानी
दत्तानुतापी कृपणो बलीयान्।
वर्गप्रशंसी वनितासु द्वेष्टा
एते परे सप्त नृशंसवर्गाः ॥ 5-43-20(33397)
धर्मश्च सत्यं च दमस्तपश्च
आमात्सर्यं ह्रीस्तितिक्षानसूया।
यज्ञश्च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥ 5-43-21(33398)
यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य-
स्तस्य स्वमस्तीति स वेदितव्यः ॥ 5-43-22(33399)
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ 5-43-23(33400)
दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा॥ 5-43-24(33401)
क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ 5-43-25(33402)
अपस्मारश्चातिवादस्तथा संभावनात्मनि।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ 5-43-26(33403)
मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ 5-43-27(33404)
श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ 5-43-28(33405)
श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ 5-43-29(33406)
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ॥
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ 5-43-30(33407)
त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ 5-43-31(33408)
न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत्।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ 5-43-32(33409)
अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ 5-43-33(33410)
अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ 5-43-34(33411)
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च॥ 5-43-35(33412)
एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत्।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ 5-43-36(33413)
अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत्।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ 5-43-37(33414)
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ 5-43-38(33415)
निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत्।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ 5-43-39(33416)
दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ 5-43-40(33417)
यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ 5-43-41(33418)
धृतराष्ट्र उवाच। 5-43-42x(3525)
आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ 5-43-42(33419)
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ 5-43-43(33420)
सनत्सुजात उवाच। 5-43-44x(3526)
एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ 5-43-44(33421)
एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते॥ 5-43-45(33422)
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत्।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ 5-43-46(33423)
मनसान्यस्य भवति वाचान्यस्याथ कर्मणा।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ 5-43-47(33424)
अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्॥ 5-43-48(33425)
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ 5-43-49(33426)
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम्।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ 5-43-50(33427)
छन्दांसि नाम क्षत्रिय तान्यथर्वा
पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा
न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ 5-43-51(33428)
छन्दांसि नाम द्विपदां वरिष्ठ
स्वच्छन्दयोगेन भवन्ति तत्र।
छन्दोविदस्ते न च तानधीत्य
गता न वेदस्य न वेद्यमार्याः ॥ 5-43-52(33429)
न वेदानां वेदिता कश्चिदस्ति
कश्चित्त्वेतान्बुद्ध्यते वापि राजन्।
यो वेद वेदान्न स वेद वेद्यं
सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ 5-43-53(33430)
न वेदानां वेदिता कश्चिदस्ति
वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं
यो वेद वेद्यं न स वेद सत्यम् ॥ 5-43-54(33431)
यो वेद वेदान्स च वेद वेद्यं
न तं विदुर्वेदविदो न वेदाः।
तथापि वेदेन विदन्ति वेदं
ये ब्राह्मणा वेदविदो भवन्ति॥ 5-43-55(33432)
धामांशभागस्य तथा हि वेदा
यथा च शाखा हि महीरुहस्य।
संवेदने चैव यथामनन्ति
तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ 5-43-56(33433)
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान्॥ 5-43-57(33434)
नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम्।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ 5-43-58(33435)
तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ 5-43-59(33436)
तूष्णींभूत उपासीत न चेष्टेन्मनसापि च।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ 5-43-60(33437)
मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ 5-43-61(33438)
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ 5-43-62(33439)
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ 5-43-63(33440)
धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ 5-43-64(33441)
॥इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|